OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 14, 2024

 वखफ् विधेयकं - जगदम्बिकापालः जे पि सि अध्यक्षः। 

जगदम्बिकापालः। 

नवदिल्ली> केन्द्रसर्वकारेण लोकसभायां अवतारितस्य वखफ् नियमपरिष्करणविधेयकस्य परिशोधनाय रूपीकृतस्य संयुक्तसंसदीयसमित्याः [जे पि सि] अध्यक्षः लोकसभायाः वरिष्ठः भा ज पा सदस्यः जगदम्बिकापालः भविष्यति। समित्यां ३१ अङ्गाः सन्ति। 

       www.samprativartah.in

आगस्टमासस्य अष्टमे दिनाङ्के आसीत् केन्द्र न्यूनपक्षकार्यमन्त्रिणा किरण रिजिजुना लोकसभायां विधेयकमिदम् अवतारितम्। ७३ वयस्कः जगदम्बिकापालः उत्तरप्रदेशतः चितः लोकसभासदस्यः भवति। २००९ तमे वर्षे लोकसभांगरूपेण चितस्य तस्य  चतुर्थं सदस्यत्वमेव एतत्।