OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 12, 2024

 भूमिः अन्धकारे पतिष्यति। भौमकान्तिक चण्डवातेन उपग्रहाः छिन्नाः भविष्यन्ति।

www.samprativartah.in

   न्यूयोर्क> समीपकाले एव सौरवातः अवात्। सौरवातेन आविश्वं बहवः दुर्घटाः दुरापन्नाः। आशयविनिमय-सुविधायाः भञ्जनं जङ्गमदूरवाण्याः प्रवर्तनानि च अबाधत।

  सौरवातस्य दुष्प्रभावः काञ्चन उपग्रहान् अपि बाधितः इति अप्रमाणिता सूचना अस्ति। सौरवातः अतिशक्तः असीत् इति कारणेन वैज्ञानिकाः आशङ्काभरिताः आसन्। किन्तु अधिकाघातं विना सौरवातः शान्तः अभवत्। समानसन्दर्भः पुनः अवर्तत इति वैज्ञानिकाः पूवसूचनां ददति। सौरवातः न, प्रत्युत भौमकान्तिकचण्डवातः एव भुवं लक्ष्यीकृत्य आगमिष्यति। गतदिनेषु द्विवारं विशेषघटनेयं सूर्ये दुरभवत्। रविवासरे तदनुबन्धतया भौम-कान्तिक चण्डवातः वीजयिष्यति इति वैज्ञानिकाः अभिप्रयन्ति।