OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 4, 2024

 वयनाट् दुरन्तः - पुनरधिवासपरियोजनायै प्रयत्नः आरब्धः। 


अनन्तपुरी> वयनाट् भूविच्छेददुरन्ताधीनां पुनरधिवासपरियोजनायै परिश्रमः आरब्ध इति मुख्यमन्त्री पिणरायि विजयः निगदितवान्। सर्वस्वविनष्टेभ्यः सुरक्षितं प्रदेशान्तरं निश्चित्य तत्र सर्वसज्जं नागरिकासूत्रणं कर्तुं सर्वकारेण आलोच्यते। विनष्टभवनानां कृते  भवननिर्माणाय अनेके सन्नद्धाः सन्ति। विविध संस्थाभिः व्यक्तिभिश्च ४८५ गृहाणां निर्माणं वाग्दत्तमस्ति। 

  दुरन्ते विशीर्णे वेल्लामल विद्यालये छात्राणां शिक्षणमनुवर्तितुं प्रक्रमाः आरब्धाः।