OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 9, 2024

 ओलिम्पिक्स् भारतम्। 

यष्टिक्रीडायाम् अनुस्यूतेन द्वितीयेन कांस्यश्रिया  अनुगृह्य श्रीजेषः निवृत्तः। 

सर्वान् भारतीयान् दुःखे निमज्य विनेष फोगटः निवृत्ता।

क्रीडानिवृत्तं श्रीजेषं सहक्रीडकाः अभिवाद्यं कुर्वन्ति। 

पारीस्> भारतीयेभ्यः कांस्यमेतत् सुवर्णश्रियं ददाति। यष्टिक्रीडायां स्पेयिनं २ - १ इति रीत्या पराजित्य भारतस्य कांस्यपतकसंसिद्धिः। केरलीयः पि आर् श्रीजेष् इत्यस्य लक्ष्यपालकस्य सुरक्षाकवचस्य बलेनैव ओलिम्पिक्स् होक्यां पुनरपि तृतीयस्थानोपलब्धिः। 

  स्वस्य अन्तिमा ओलिम्पिक्स् क्रीडा एषेति श्रीजेषेण उद्घोषितमासीत्। अत एव हर्मन् प्रीत सिंहस्य नेतृत्वे सहक्रीडकाः समुत्कृष्टं निवृत्तिमङ्गलं श्रीजेषाय दत्तवन्तः। 

  यष्टिक्रीडायां ५२ संवत्सरेभ्यः परमेव भारतम् अनुस्यूततया पतकद्वयेन श्रीलालितं वर्तते। टोक्यो ओलिम्पिक्स् मध्ये अपि श्रीजेष आसीत् लक्ष्यरक्षकः। 

   तथैव शरीरभाराधिक्येन अन्तिमस्पर्धातः अयोग्यताम् अभिमुखीकृतवती विनेष फोगटः मल्लयुद्धक्रीडायाश्चापि निवृत्तिम् उद्घोषितवती। "मल्लयुद्धेन सह प्रतिद्वन्द्वे अहं पराभूता। भवतां स्वप्नः मम धैर्यश्च भञ्जितः, क्षम्यताम्"  तीव्रदुःखेन सा सामाजिकमाध्यमेन निगदितवती। 

  ओलिम्पिक्स् चरित्रे इदंप्रथमतया मल्लयुद्धस्य अन्तिमचरणं प्रविष्टवती भारतीयवनिता किमपि पतकमलब्ध्वा निवर्तते इति  दौर्भाग्यः १४० भारतीयान् सन्तापसमुद्रे निमज्जयति।