OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 5, 2024

 ओलिम्पिक्स् वार्ताः।

जूलियन् आल्फ्रड् शीघ्रतमा धाविका।

जूलियन् आल्फ्रड्। 

पारीस्> सेन्ट् लूसिया नामकः लघुतरः करीबियन् द्वीपदेशः। ततः आगता जूलियन् आल्फ्रड् नामिका विश्वस्य शीघ्रतमा धाविकापदं प्राप्तवती। गतदिने सम्पन्ने महिलानां १०० मीटर् धावनस्पर्धायाः अन्तिमचक्रे 'जुजू' इति संबुध्यमाना जूलियन् १०. ७२ सेकन्ड्मितसमयेन समाप्तिबिन्दुं प्राप्तवती। वर्तमानीन विश्ववीरा अमेरिकायाः  षाकारी १०. ८७ सेकन्ड्मितसमयेन द्वितीयस्थानं प्राप। 

  पादकन्दुकक्रीडायाः [महिलाविभागः]  प्रपूर्वान्त्यचक्रस्य एकस्मिन् चरणे ब्रसीलः स्पेयिनं प्रति, अन्यस्मिन् चरणे यू एस् जर्मनीं प्रति च स्पर्धिष्येते। 

  टेन्निस् स्पर्धायां स्पेयिनस्य कार्लोस् अल्करासं पराजित्य सेर्बियायाः नोवाक् जोकोविचः सुवर्णपतकम् उपलब्धवान्।

नोवाक् जोकोविचः।