OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 14, 2024

 विनेष् फोगटस्य याचिकायाः विधिः पुनरपि परिवर्तितः। 

पारीस्> ओलिम्पिक्स् महिलामल्लयुद्धे अयोग्यताम् अभिमुखीकृतायाः विनेष् फोगट् इत्यस्यायाः याचिकायां विधिप्रख्यापनं शुक्रवासरपर्यन्तं दीर्घितम्। अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेनैव निगदितमिदम्। कुजवासरे रात्रौ विधिप्रख्यापः भविष्यतीति निश्चय एव परिवर्तितः।

  मल्लयुद्धस्य अन्तिमचरणात् पूर्वं विधत्तायां शरीरभारपरिशोधनायां १०० ग्राम् मितस्य अधिकतया विनेष् फोगटः अयोग्या अभवत्। ऐ ओ सि संस्थायाः  निर्णयममुं निरस्य रजतपतकस्य अंशाङ्गीकारं विधातुमेव तस्याः सङ्कटनिवेदनम्।