OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 12, 2024

 ओलिम्पिक्स् वार्ताः। 

वर्णाभः समाप्तिः। २०२८ तमे लोसान्जलसे। 


पारीसः>विश्वाय नूतनं ऊर्जं, संघाटने  नूतनमादर्शं च प्रदाय १६ दिनात्मकस्य ओलिम्पिक्स् महोत्सवस्य ध्वजावरोहणं समङ्गलं सम्पन्नम्। अशीतिसहस्राधिकं जनान् साक्षीकृत्य प्रसिद्धे 'स्टड् दे फ्रान्स्' क्रीडाङ्कणे आसीत् समापनकार्यक्रमाः सम्पन्नाः। 

  आगामि ओलिम्पिक्स् २०२८ तमे वर्षे लोस् आन्जलस् मध्ये आयोजयितुं निश्चयः कृतः। पतकसम्पादने अमेरिका प्रथमस्थानं प्राप। द्वितीयस्थाने चीनः, तृतीये तु जापानश्च।