OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 20, 2024

 कोल्कोत्तायां वैद्यायाः बलात्कारहत्या - आराष्ट्रं प्रतिषेधः ; स्वयमेव प्रकरणं स्वीकुर्वन् सर्वोच्चनीतिपीठः।

नवदिल्ली> पश्चिमवंगस्य  कोल्कोत्तायां आर् जि कर् आतुरालये युवकवैद्यां बलात्कारं कृत्वा अमारयत् इत्यस्मिन् प्रकरणे आभारतं प्रतिषेधान्दोलनं प्रचलति। गतदिने कोल्कोत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे मोहन बगान - ईस्ट् बङ्गाल् पादकन्दुकक्रीडासमित्याः आराधकवृन्दं समेत्य प्रतिषेधान्दोलनं अकरोत्। 

  सर्वेषु राज्येषु वैद्याः कर्मनिरासं उद्घोष्य विविधदिनेषु प्रतिषेधान्दोलने भागं कृतवन्तः। दिल्यामपि वैद्यकछात्रैः आन्दोलनं विधत्तम्। 

www.samprativartah.in

    प्रत्युत, सर्वोच्चन्यायालयेन प्रकरणेSस्मिन् स्वमेधया प्रकरणं पञ्जीकृतम्। मुख्यन्यायाधिपः न्याय. डि वै चन्द्रचूडः आध्यक्षम् ऊढमानेन त्र्यङ्गनीतिपीठेन  प्रकरणमद्य परिगण्यते।