OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 29, 2024

 दशलक्षं कर्मसौविध्यम् सृजते भारतेषु।

नवदिल्ली>  विकसितभारतम् इत्यस्मिन् लक्ष्ये लग्नेन भारतसर्वकारेण दशलक्षं जनेभ्यः कर्मसौविध्यम् सृजते। तदर्थं १२ यन्त्रशाला सुसौविध्य-नगराणि (smart city) संरचयन्ति।  केन्द्रसर्वकारस्य मन्त्रितलोपवेशने एव निर्णयोऽयं स्वीकृतः। परियोजनेयं परोक्षतया ३० लक्षं जनेभ्यः कर्मावसरः दास्यति।  विश्वस्य विविधेभ्यः प्रदेशेभ्यः यन्त्रशालाः  सृष्टिकर्मार्थं भारतं समागमिष्यन्ति। उत्तराखण्डस्य खुरप्रिया पञ्चाबस्य राजपुरपाट्याला महाराष्ट्रस्य दिग्गि उत्तरप्रदेशस्य आग्र प्रयागराज च बीहारस्य गय तेलुङ्गानायाः सहीराबागः आन्ध्रायाः ओर्वाक्कल् कोप्पार्ति च राजस्थानस्य जोधपुरपाली केरळस्य पालक्काट् च समर्थनगरस्य कृते चिताः प्रदेशाः भवन्ति। २८६०२ कोटि रूप्यकाणि एतस्याः परियोजनायाः कृते संरक्षिताः सन्ति।