OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 24, 2024

 मोदिने युक्रैने उज्वलं स्वीकरणम्।

नरेन्द्रमोदी सेलन्स्की च अभिमुखभाषणे। 

 

कीव्> शान्तिसन्देशेन सह युक्रैनं प्राप्तवते भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने प्रेमनिर्भरं स्वीकरणं विहितवान् तत्रत्यः राष्ट्रपतिः व्लोदिमर् सेलन्स्की। 

  पोलण्टतः रेल् यानमार्गेण दश होराः अटनं कृत्वा कीव् नगरं प्राप्तवन्तं मोदिनं व्लोदिमर् सेलन्स्की आलिङ्गनं कृत्वा स्वीकृतवान्। तदनन्तरं होरात्रयाधिकं यावत् मरिन्स्की राजभवने तौ मेलनं कृत्वा युक्रैन-रष्या युद्धमधिकृत्य स्वाभिमतानि प्रकाशितवन्तौ। युक्रैन-रष्ययोः संघर्षं समापयितुं क्रियमाणेषु आगोलपरिश्रमेषु सुप्रधाननयतन्त्रशक्तिरूपेण वर्तितुं भारतेन शक्यते इति सेलन्स्की अवदत्। राष्ट्रे शान्तिसंस्थापनाय भारतस्य सम्पूर्णं सहकारित्वं स्यादिति मोदिना स्पष्टीकृतम्।