OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 6, 2024

 बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभः - षेख् हसीना प्रधानमन्त्रिपदं त्यक्त्वा पलायिता। 

षेक् हसीना।

धाक्का> बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभे अक्रमनिबिडे जाते प्रधानमन्त्रिणी षेख् हसीना स्थानं त्यक्त्वा राष्ट्रं परित्यक्तवती। सोमवासरे त्यागपत्रं समर्प्य सोदर्या सह वायुसेनायाः विमानेन पलायितवती सा दल्लीसमीपस्थे हिन्डण् विमाननिलये अवातरत्। हसीना लण्टने राजनैतिकाभयं प्राप्स्यतीति श्रूयते। 

  १९७१ तमे वर्षे सम्पन्ने बङ्गलादेशविमोचनयुद्धे ये भागं कृतवन्तः तेषां परम्परायै सर्वकारनियुक्तिषु ३०% आरक्षणं दीयमानमासीत्। एतं विरुध्य जूलै मासे राष्ट्रे सर्वत्र युवजनैः विधत्तमान्दोलनं रक्तरूषितमभवत्। ततः राष्ट्रस्य सर्वोच्चन्यायालयेन आरक्षणं ५ % इति रीत्या न्यूनीकृतमित्यतः प्रक्षोभः शमितः आसीत्। किन्तु प्रक्षोभे मृतानां कृते हसीनया क्षमा याचनीया इत्यावश्यमुन्नीय युवकैः गतदिनद्वयादारभ्य  प्रक्षोभः कृतः। एतस्य अन्त्यमेव हसीनायाः पदत्यागे पलायने च समाप्तम्। राष्ट्रस्य प्रशासकत्वम् इदानीं सैन्येन स्वीकृतमस्ति।