OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 12, 2024

 तुङ्गभद्रा सेतोः निर्गमः भग्नः।

तीरस्थजनपदेभ्यः जागरणनिर्देशः। 

बङ्गलुरु> कर्णाटके तुङ्गभद्रा सेतोः ३४ निर्गमेषु अन्यतमः भग्नः प्रवाहितः अभवत्। १९ तमः 'क्रेस्ट् द्वार'मेव जलसम्मर्देन भग्नः। ३५,००० क्यूसेक्स् परिमितं जलं शक्त्या प्रवहितम्। 

  सेतोः सम्मर्दप्रतिरोधाय अवशिष्टानि ३३ द्वाराण्यपि उद्घाटितानि। एकलक्षं क्यूसेक्स् परिमितं जलं तुङ्गभद्रानदीं प्रवहितम्। बलारि, विजयनगरं, कोप्पाल्, रायपुरं इत्येतेभ्यः जनपदेभ्यः जागरणनिर्देशः दत्तः। 'सुर्कि' नामकमिश्रितमुपयुज्य निर्मितः अयं सेतुः कर्णाटकस्य बृहत्तमः सेतुर्भवति।