OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 12, 2024

 उत्तरभारतराज्येषु भीषणवृष्टिः - २८ मरणानि। 

नवदिल्ली> भारतस्य उत्तरप्रान्तीयराज्येषु वृष्टिः भीषणा वर्तते। गृहभञ्जनं मृत्प्रपातः इत्यादिदुष्प्रभावितैः २८ जनाः मृत्युमुपगताः। 

   हरियाने बहवः ग्रामाः जलनिमग्नाः जाताः। अमर्नाथतीर्थाटनम् अल्पकालिकेन अवस्थापितम्। राजस्थाने वृष्टिदुष्प्रभावेण १४ जनाः मृताः। अत्र २४ होरैः ३८ सेन्टीमीटर् वृष्टिरङ्किता। 

  पञ्चाबे होषिपुरे यात्रावाहनं जलप्रवाहे निपत्य एकपरिवारीयाः अष्ट जनाः मृताः। दिल्यां अतिवृष्टिरनुभूयते। रोहिणी सेक्टर् स्थाने सप्तवयस्कः जले निमज्य मृत्युमपगतः। हिमाचले तिस्रः बालिकाः जले निमज्य मृत्युं गताः। उत्तरप्रदेशतः द्वे मरणे वृत्तान्तीकृते। अरुणाचलप्रदेशः, असमः, बिहारम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुभूयते।