OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 13, 2024

 काश्मीरे भीकराक्रमणं द्वयोः सैनिकयोः वीरमृत्युः ; कश्चन पुरवासी च मृतः। 

श्रीनगरम्> जम्मु काश्मीरे अनन्तनागजनपदे सैन्यस्य भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युमुपगतौ। आहतेषु चतुर्षु सैनिकेषु द्वयोः पुरवासिनोः एकः पुरवासी परं मृतः। 

  कोकर् नागप्रान्ते भीकराणां सान्निध्यमस्तीति वृत्तान्तानुसारं कृते अन्वेषणे भीकरैः सह भुषुण्डिप्रयोगः जातः। भीकराणां अतिक्रमं प्रतिरोद्धुं संयुक्तसेनादलैः अन्वेषणं शक्तं कारितम्।