OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 16, 2024

 युक्रेनसेना रष्यायाः अन्तः प्राविशत्।

१.३ लक्षं जनाः अपनीताः , भारतीयेभ्यः जागरणनिर्देशः।

बलगोरेदक्षेत्रे आपत्कालिकावस्था प्रख्यापिता। 

कीव्> रष्याः सीमाप्रदेशस्यान्तः कुर्स्क् प्रान्ते आगस्टमासस्य षष्ठेदिने युक्रेनेन आरब्धं स्थलाधिनिवेशम् अधिकप्रदेशम् अवर्धयत। युक्रेनसेना  बलगोरेदक्षेत्रं प्राप  इत्यतः तत्र आपत्कालीनजागरणनिर्देशः कृतः। कुर्स्क् बेलगोरेद प्रदेशेभ्यः १. ३लक्षाधिकं जनाः सुरक्षितस्थानं नीताः। 

  २०२२तमे वर्षे रूस-युक्रेनयुद्धस्य आरम्भात्परं प्रथममेव युक्रेनसैन्येन रूसीयक्षेत्रं प्रविष्टम्। द्वितीयलोकमहायुद्धस्य अनन्तरं रष्यां लक्ष्यीकृत्य सम्पद्यमानः बृहत्तमः स्थलाधिनिवेशः भवत्येष इति अभिज्ञैः सूच्यते। दशसहस्राधिकाः युक्रेनसैनिकाः अस्मिन् प्रक्रमे भागं स्वीकुर्वन्तः स्युरित्यपि सूच्यते। 

www.samprativartah.in

  युक्रेनस्य आक्रमणमालक्ष्य ब्रयान्स्क्, बलगोरेद्, कुर्क्स् इत्यादिषु सीमाप्रदेशेषु वर्तमानेभ्यः छात्रानभिव्याप्य भारतनागरिकेभ्यः मोस्कोस्थेन भारतस्थानपतिकार्यालयेन जागरणनिर्देशः दत्तः।