OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 7, 2024

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपणे नीरज चोप्रः, मल्लयुद्धे विनेष फोगटः च अन्तिमचरणे। 

नीरज चोप्रः।

विनेष् फोगट् 

यष्टिक्रीडायां भारतस्य पराजयः। 

पारीस्> कुन्तप्रक्षेपणस्य [Javelin throw] योग्यतास्पर्धायां प्रथमपरिश्रमे एव ८९. ३४ मी  प्रक्षिप्य भारतस्य नीरज चोप्रः अन्तिमचरणं प्रविवेश। गुरुवासरे रात्रौ अन्तिमस्पर्धा भविष्यति। टोक्यो  ओलिम्पिक्से सः सुवर्णपतकं प्राप्तवान् आसीत्। 

   महिलानां मल्लक्रीडायाः ५० किलोग्राम् विभागे भारतीया विनेष फोगटः क्यूबायाः युस् नैलिस् गुस्मान् लोपस् इत्येनां पराजित्य अन्तिमचक्रं प्राविशत्। इदंप्रथममेव वनितानां मल्लयुद्धे भारतस्य अन्तिमचक्रप्रवेशः। 

  यष्टिक्रीडायाः पूर्वान्त्यचरणे भारतं जर्मन्या पराजितम्। अतः सुवर्णप्रतीक्षा अस्तं गतः। तृतीयस्थानाय स्पेयिनेन सह स्पर्धिष्यते।