OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 28, 2024

 बलूचिस्थाने भीकराक्रमणं - ५१ जनाः हताः। 

कराची> पाकिस्थाने बलूचिस्थानखण्डस्य विविधस्थानेषु  शनि-रविवासरयोः विधत्तायां भीकराक्रमणपरम्परायां ५१ जनाः भुषुण्डिप्रयोगेण हताः। अनेके व्रणिताश्च। मृतेषु ६ सुरक्षासैनिकाः १२ भीकराश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेषन् आर्मी [बी एल् ए]' इति बलूच् विघटनवादसंघटनेन स्वीकृतम्। बलूचिस्थानप्रदेशे वर्तमानानि आरक्षकनिस्थानानि, राष्ट्रियमार्गाः, रेल्यानमार्गाश्च आक्रमणाधीनानि जातानि। रविवासरे रात्रौ मुसाखलजनपदस्थे राजमार्गे बस् यानं प्रतिरुध्य आक्रमणकारिणः २३ यात्रिकाणां प्रत्यभिज्ञानपत्रं निरीक्ष्य २३ जनान् भुषुण्डिप्रयोगेण निहतवन्तः। वंशीयविद्वेष एव हत्यायाः कारणमिति आरक्षकैः मन्यते।