OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 29, 2024

 'मुल्लप्पेरियार् प्रकरण'परिहाराय कुल्या पर्याप्ता इति ई श्रीधरः। 

कोष़िक्कोट्> केरलस्य 'मुल्लप्पेरियार् प्रकरणे' नूतननिर्देशेन दिल्ली मेट्रो रयिल् कोर्परेशनस्य भूतपूर्वः उपदेष्टा ई श्रीधरः। 

  तमिलनाटाय जलवितरणार्थं कुल्यानिर्माणमेव वरमिति ई श्रीधरः अवोचत्। वर्तमानसेतोः तमिलनाटं प्रति ४ कि मी परिमित कुल्यानिर्माणाय केवल ४०० कोटि रूप्यकाणां व्ययमेव भविष्यति। कुल्यानिर्माणाय एकसंवत्सरमेव पर्याप्तम्। किन्तु नूतनसेतुनिर्माणाय १५ वर्षाणि आवश्यकानि। यदि कुल्यानिर्माणम् अभविष्यत् तर्हि ५० संवत्सराणि यावत् नूतनसेतुमधिकृत्य चिन्तापि नावश्यकी।

  'पश्चिमघट्टसंरक्षणं मुल्लप्पेरियार् भीषायाः परिहारः च' इत्यस्मिन् विषये नाषणल् हिन्दुलीग् इत्यनेन संघटनेन आयोजितायां सङ्गोष्ठ्यां  भाषमाणः आसीत् ई श्रीधरः। १४२ पादपरिमितसम्भरणशेषीयुक्तस्य सेतोः अधस्तात् शतपादोन्नत्यां ६ मीटर् विस्तारे कुल्या निर्मातव्या। यदा सेतुजलं १०० पादोन्नतिं प्राप्नोति तदा कुल्याद्वारा प्रवह्य सम्मर्दं न्यूनीकृत्य भीषामपाकर्तुं शक्यते।