OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 20, 2024

 अद्य श्रीनारायणगुरोः १६९ तमं जन्मदिनम् आकेरलमाघुष्यते। 

श्रीनारायणगुरुदेवः। 

कोच्चि> केरलात् विश्वप्रसिद्धिम् आर्जितः ज्ञानयोगी, अद्वैतवेदान्ती, समाजपरिष्कर्ता संस्कृतपण्डितः इत्येवं रीत्या  भारतस्य आध्यात्मिक सामाजिकनभोमण्डले विराजमानस्य श्री नारायणगुरुदेवस्य १६९ तमं जन्मदिनम् अद्य आकेरलम् विविधैः कार्यक्रमैः आघुष्यते। 

  अद्वैतवेदान्तप्रतिष्ठापकस्य श्री शङ्कराचार्यस्य पादक्षेपान् अनुगतः श्री नारायणगुरुः तत्काले केरलसमाजे वर्तमानाम् उच्चनीचव्यवस्थां जातिपराम् अस्पृश्यताम् अन्यान् दुराचारान् च उच्चाटयितुं स्वजीवितेन उपसप्ततिसंख्याकैः कृतिभिश्च प्रयतितवान्।

  कोल्लसंवत्सरीये १०३२ तमे वर्षे सिंहमासस्य शतभिषक् नक्षत्रे [क्रि प १८५६ आगस्ट् २०] तिरुवनन्तपुरं जनपदस्थे चेम्पष़न्तिग्रामे आसीत् तस्य जन्म। बाल्ये एव संस्कृतशिक्षणेन भारतसंस्कृतिं विशिष्य वेदान्तदर्शनं  करगतामलकमिव सम्पाद्य   अयं यदा युवकः अभवत् ततः आरभ्य समाजस्य उद्धारणाय आकेरलं सञ्चरन् प्रयतितवान्। "एका जातिः एको धर्मः एको देवः मनुष्यस्य", " यः कोSपि धर्मः, मनुजक्षेम एव वरम्", "भिन्नधर्माणां सार एक एव" इत्यादिभिः सन्देशैः अद्वैतवेदान्तस्य प्रायोगिकप्रवक्ता अभवत्।