OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 15, 2024

 स्वतन्त्रतादिनोत्सवदीप्त्यां भारतम्। 

'विकसितभारतं २०४७' अस्य वर्षस्य स्वतन्त्रतासंबन्धी स्थाप्यविषयः। 

भारतस्य प्रगतिः आविश्वं साकाङ्क्षं वीक्ष्यते इति प्रधानमन्त्री। 

प्रधानमन्त्री राष्ट्रध्वजम् अभिवाद्यं करोति। 

नवदिल्ली> भारतं स्वस्य ७८ तमं स्वतन्त्रतादिनं समेषु भारतेषु अत्युत्साहपूर्वम् आघुष्यते। प्रभाते ७. ३० वादने प्रधानमन्त्री नरेन्द्रमोदी चेङ्कोट्टायां राष्ट्रियध्वजम् उन्नीय राष्ट्रम् अभिसम्बोधयति स्म। यदा  स्वातन्त्र्यस्य शततमः स्वातन्त्र्योत्सवः भविष्यति तदा विश्वे भारतं सर्वथा प्रथमस्थानं प्राप्स्यतीति प्रतीक्षां प्रकटितवान्। तदर्थम् उद्यमाः क्रियमाणाः सन्तीति स्वातन्त्र्यदिनप्रभाषणे  तेनोक्तम्। नरेन्द्रमोदिनः अविरतं ११तमं स्वातन्त्र्यदिनप्रभाषणमासीदिदम्। 

www.samprativartah.in

  स्वस्य प्रशासनाधीने सम्भूताः प्रगतयः उपलब्धयश्च प्रधानमन्त्रिणा परामृष्टाः। राष्ट्रस्य सर्वतोमुखं प्रगतिं लोकराष्ट्राणि साकूतं अभिवीक्ष्यन्तीति मोदिना उक्तम्। २०४७ तमे स्वतन्त्रतादिवसे सम्प्राप्यमाणे  विश्वराष्ट्राणां मध्ये  भारतस्य अग्रिमस्थानमेव कांक्षते इति सः प्रतीक्षां प्राकटयत्। 

   ओलिम्पिक्स् तारकाः, युवकाः, गोत्रसमूहप्रतिनिधयः, कृषकाः, महिलाः, केन्द्राभियोजनानां गुणभोक्तारः, अन्ये विशिष्टातिथयः इत्येवं भिन्नभिन्नक्षेत्रेभ्यः ६००० विशिष्टातिथयः कार्यक्रमं प्रति निमन्त्रिताः आसन्।