योगदिनं समाचरितम्।
योगः शान्तेः दिशं दिशति - नरेन्द्रमोदी ।
नवदिल्ली> आविश्वे संघर्षेषु वर्धमानेषु योगः शान्तेः दिशं दिशतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। संघर्षात् सहयोगं प्रति, सम्मर्दात् परिहारं प्रति योगः लोकं नयतीति सः उक्तवान्। आन्ध्रप्रदेशे विशाखपट्टणे अन्ताराष्ट्रीययोगदिने भागं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदी।
त्रिलक्षं जनैः भागं कृतेSस्मिन् योगदिनाचरणकार्यक्रमे प्रधानमन्त्री नेतृत्वमावहत्। योगानुष्ठानं जीवनशीलं कारयेदिति मोदी अन्ताराष्ट्रसमाजं प्रति अभ्यर्थयत।