युद्धे अमेरिका अपि।
इरानस्य त्रिषु आणवनिलयेषु बोम्बवर्षणं कृतम्।
इस्रयेलं प्रति इरानस्य प्रत्याक्रमणम्।
टेह्रान्> इरानस्य आणवाभियोजनानाम् उन्मूलनं कर्तुम् इति उद्घुष्य इस्रयेलेन आरब्धे इरान-इस्रयेलयुद्धे अमेरिका अपि भागभाक् अभवत्। रविवासरे प्रत्युषसि इरानस्य त्रिषु आणवनिलयेषु अमेरिक्कायाः 'बि-२' नामकानि बोम्बवर्षणविमानानि बोम्बवर्षणमकुर्वन्।
नतान्स्, इस्फहान्, फोर्दो इत्येतानि आणवनिलयानि लक्ष्यीकृत्य 'बङ्कर् बस्टर्' नामकानि तीव्रप्रहरशक्तियुतानि बोम्बस्फोटकानि वर्षितानीति डोनाल्ड ट्रम्पेन सामाजिकमाध्यमेन निगदितम्। आणवनिलयत्रयस्य उन्मूलनाशमकरोदिति अमेरिकया अभिमानितम्। आक्रमणवार्ता इरानेन दृढीकृता; किन्तु तेषां गौरवाः दोषाः न सम्पन्नाः इति इरानेनापि अभिमानितम्।
होराणामाभ्यन्तरे इरानः इस्रयेलस्य बहुषु प्रदेशेषु अग्निशस्त्राण्युपयुज्य आक्रमणमकरोत्।