OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 25, 2025

 इतिहासप्रसूतिः। 

१३० कि मी डयित्वा प्रथमं विद्युत् यात्राविमानम्!

अलिया सि एक्स् ३०० इति विद्युत् विमानम्। 

वाषिङ्टणः> यात्रिकान् वहत् विश्वस्मिन् प्रथमं विद्युता प्रवर्तमानं यात्राविमानं विजयपूर्णं डयितम्। यू एस् राष्ट्रस्य 'ईस्ट् हाम्टण्' विमाननिलयात् 'जोण् एफ् केन्नडि' विमाननिलयं प्रति चतुरान् यात्रिकान् ऊढ्वा आसीत् विमानस्य डयनम्। 

  ३० मिनिट् मितसमयेन १३० कि मी मितदूरडयनाय इन्धनव्ययः केवलं अष्ट डोलर् [६९४ रूप्यकाणि] आसीत्। एतद्दूरं उदग्रयाने अटितुं १६० डोलर् [१३८८५ रूप्यकाणि] आवश्यकानि। 

  'बीटा टेक्नोलजीस्' संस्थया निर्मितम् 'अलिया सि एक्स् ३००' इति विमानमेव व्योमयात्राचरित्रे नूतनमध्यायं विरचितवत्। राष्ट्रे लघु यात्रेभ्यः एतदुपकारकमिति निर्माणसंस्थया निगदितम्। आगामिवर्षे सेवां समारब्धुं शक्यते इति तैरभिमानितम्।