OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 21, 2025

 अग्निबाधिता 'वान् हाय्' महानौकां श्रीलङ्कानौकाश्रयम् अपनेतुम् उद्यमः। 

कोच्ची> कोष़िक्कोट् समीपे आरबसमुद्रे सप्ताहद्वयात्पूर्वम् अग्निबाधिता 'वान् हाय् ५०३' इति पण्यमहानौकां अग्निनिर्मूक्तां कृत्वा श्रीलङ्कस्थां हम्पन् टोट्टा महानौकाश्रयं प्रति नेतुं सौविध्यता विचार्यते। इदानीं केरलतटात् ७२ नोटिकल् मैल् मितं दूरे महानौका वर्तते। ततः समीपस्थः महानौकाश्रयः भवति हम्पन् टोट्टा। ४८० नोटिकल् मैल् मितं दूरमस्ति। 

  चिरकालीनः व्यापारबन्धः अनेन महानौकाश्रयेन सह महानौकासंस्थायाः अस्ति। तदर्थं महानौकाश्रयाधिकृतैः सह चर्चा  प्रारब्धा।