ओपरेषन् सिन्धुः।
इस्रयेलात् प्रथमसंघः भारतं सम्प्राप्तः।
नवदिल्ली> ओपरेषन् सिन्धुरिति भारतीयानाम् अपनयनाभियोजनायाः अंशतया इस्रयेलदेशात् प्रथमसंघं वहत् विमानं गतरात्रौ दिल्लीं सम्प्राप्तम्। इस्रयेलात् स्थलमार्गेण जोर्दानं प्राप्तवन्तः १६१ भारतीयाः सविशेषविमाने एव स्वदेशं प्राप्तवन्तः।
इरानतः अपि एकं विमानं दिल्लीं सम्प्राप्तम्। इतःपर्यन्तं १७१३ भारतीयाः इरानात् अपनीताः। बिहारं, जम्मु-काश्मीरं, दिल्ली, उत्तरप्रदेशः, राजस्थानं, गुजरात्, महाराष्ट्रम् इत्येतानि राज्यस्थाः भवन्ति प्रत्यागतवत्सु अधिके।