OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 24, 2025

 ओपरेषन् सिन्धुः।

इस्रयेलात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> ओपरेषन् सिन्धुरिति भारतीयानाम् अपनयनाभियोजनायाः अंशतया इस्रयेलदेशात्  प्रथमसंघं वहत् विमानं गतरात्रौ दिल्लीं सम्प्राप्तम्। इस्रयेलात् स्थलमार्गेण जोर्दानं प्राप्तवन्तः १६१ भारतीयाः सविशेषविमाने एव स्वदेशं प्राप्तवन्तः। 

  इरानतः अपि एकं विमानं दिल्लीं सम्प्राप्तम्। इतःपर्यन्तं १७१३ भारतीयाः इरानात् अपनीताः। बिहारं, जम्मु-काश्मीरं, दिल्ली, उत्तरप्रदेशः, राजस्थानं, गुजरात्, महाराष्ट्रम् इत्येतानि राज्यस्थाः भवन्ति प्रत्यागतवत्सु अधिके।