अहम्मदाबादे आकाशदुरन्तः।
प्रतिलोमसंभाव्यता परिशुध्यते।
अहम्मदाबादः> अहम्मदाबादे जूण् १२ तमे दिनाङ्के दुरापन्नायां विमानदुर्घटनायां प्रतिलोमसम्भाव्यता अपि परिशुध्यते इति केन्द्रव्योमयानसहमन्त्रिणा मुरलीधरमोहेलवर्येण प्रोक्तम्। दुर्घटनास्थानात् सङ्कलितानि सि सि टि वि दृश्यानि अपि अन्वेषणसंस्थाभिः परिशुध्यन्ते।
ए ए ऐ बि संस्थायाः [Aircraft Accident Investigation Bureau] नेतृत्वे अस्ति मुख्यतया अन्वेषणम्। दुर्घटनायां २४१ यात्रिकान् अभिव्याप्य २७५ जनाः मृत्युमुपगताः।