भारतस्य 'डिजिटल् जनाधिपत्य'पदक्षेपः।
राष्ट्रे इदंप्रथमतया 'मोबैल् ई मतदानं' कृत्वा बिहारीयाः।
पाट्ना> जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा [Mobile E App] मतदानं कुर्वत् प्रथमराष्ट्रं भवति भरतम्। शनिवासरे सम्पन्ने प्रादेशिकनिर्वाचने जनाः ईदृशरीत्या स्वमतदानमकुर्वन्।
पूर्वीयचम्पारन् जनपदे पक्रि दयाल् इत्यत्र बीबा कुमारी भवति प्रथमतया जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा मतदानं कृतवतीति राज्यनिर्वाचनायोगेन निगदितम्।
षट् नगरसभाः ग्रामसभाः च प्रति सम्पन्ने निर्वाचने आहत्य ६२. ४१% जनाः मतदानं कृतवन्तः। मतदानकेन्द्राणि प्राप्तुं ये क्लेशमनुभवन्ति तेषां कृते आसीत् ई - मतदानानुमतिः दत्ता।