पाकिस्थाने आत्मघात्याक्रमणं - १६ सैनिकाः हताः।
पेषवार्> अफ्गानिस्थानोपान्ते खैबर् पक्तूण ख्व इति पाकिस्थानीयप्रदेशे शनिवासरे जाते आत्मघात्याक्रमणे १६ सैनिकाः हताः। २९ जनाः क्षताः जाताः। आहतेषु सामान्यजनाः प्रादेशिकप्रशासनाधिकारिणश्च अन्तर्भवन्ति।
आक्रमणस्य उत्तरदायित्वं 'पाकिस्थान तालिबान्' इति कथ्यमानस्य 'तेह्रिके तालिबान् पाकिस्थानं' [टि टि पि] संघटनस्य हाफिस् गुल् बहादूर् इति शाखासंघटनेन स्वीकृतम्।
सैन्यस्य वाहनव्यूहेन सह स्फोटकवस्त्वुपेतं वाहनं आत्मघातिना संघट्टितमासीत्। स्फोटने समीपस्थं भवनद्वयं विशीर्य षट् बालकाः आहताः।