'ओपरेषन् सिन्धुः' - इरानात् प्रथमसंघः भारतं सम्प्राप्तः।
नवदिल्ली> इरान-इस्रयेलयुद्धे तीव्रे द्वाभ्यामपि राष्ट्राभ्यां भारतीयान् अपनेतुं प्रारब्धा योजना - 'ओपरेषन् सिन्धुः' नामिका - केन्द्रप्रशासनेन शीघ्रा कारिता। इरानतः भारतीयानां प्रथमसंघः गतदिने प्रत्युषसि दिल्लीं सम्प्राप्तः।
इरानदेशात् स्थलमार्गेण अर्मेनियां प्रापितान् ११० वैद्यकीयछात्रान् विमानेन दिल्लीम् आनयत्। इस्रयेलात् स्वदेशं प्राप्तुम् अभिलषतः नागरिकानपि आनेतुं निश्चयः कृत इति विदेशकार्यमन्त्रालयेन निगदितम्।