OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 22, 2025

  कृत्रिमबुद्धिमत्ता मस्तिष्के निष्क्रियत्वम् करोति वा ?  

विषयेऽस्मिन् अनुसन्धानं प्रचलति। यूनाम् अध्ययने वैज्ञानिकप्रवर्तनेषु च चाट् जी टी पी सदृशानम् अनुप्रयोगाणां दुष्प्रभावः आशङ्का जनकः इति वैज्ञानिकाः अभिप्रियन्ति।

  मसाच्युसेट्स् इन्स्टिट्यूट् ओफ् टेक्नोलजी ( MIT ) इत्यस्य परीक्षणशालायां विद्यमानाः वैज्ञानिकाः एव एवम् अभिप्रेन्ति। १८ - ३९ वयस्कान् ५४ यूनः संगृह्य आसीत् गवेषणम्। चाट् जी टी पि, गूगिळ् सेर्च् इत्यादीनि  कृत्रिमबुद्धिमत्ता-संविधानान् उपयुज्य उपन्यासरचनायै यूनां एकः गणः  निर्दिष्टः अन्ये गणः एतासां सुविधानाम् उपयोगं विना लेखनाय निर्दिष्टः। 

निरीक्षणस्य फलम् एवम् आसीत् -

    अन्तर्जाल-अनुप्रयोगादि सुविधायाः उपयोगं विना ये अध्ययनं कृतवन्तः ते, अधिकतया बौधिकप्रगतिं प्राप्तवन्तः। अनन्तरं तेभ्यः अपि अन्तर्जालसुविधायाः उपयोगाय अनुज्ञा दत्ता। तदनन्तरं तेषां बुद्धिमाने अत्यधिका प्रगतिः दृष्टा। अतः प्रथमं स्वतन्त्रचिन्तायै  अवसरं दत्वा तदनन्तरम् आधुनिक अनुप्रयोगसुविधायाः उपयोगः क्रियते चेत् अध्येतॄणां बौद्धिकमण्डलस्य  अतिविशिष्टं वर्धनं भविष्यति इति भवति अनुसन्धानस्य निष्कर्षः।