उत्तरखण्डे आकस्मिकप्रलयः - नव कर्मकराः अप्रत्यक्षाः।
कुलु> उत्तरखण्डस्थे उत्तरकाशिप्रदेशे रविवासरस्य प्रत्युषसि दुरापन्ने आकस्मिकप्रलये भवनसमुच्चयनिर्माणे व्यापृताः नव श्रमिकाः अप्रत्यक्षाः जाताः। कतिपयदिनैः तत्र अतिवृष्टिर्भवति। अद्य रक्तजाग्रताता उद्घोषिता।