इङ्गलाण्ट - भारतनिकषस्पर्धा
इङ्गलाण्टः विजयीभूतः।
लीड्स्> प्रतिद्वन्दिनः क्रीडाङ्कणे क्रीडायाः चरणद्वयेन पञ्च शतकानि ८३५ धावनाङ्कान् च सम्प्राप्तान्यपि भारताय विजयद्वारं नोद्घाटितम्। आद्यन्तम् उद्वेगभरितायां प्रथमनिकषस्पर्धायाम् इङ्गलाण्टस्य पञ्च ताडकानां विजयः।
३७१ धावनाङ्कानां विजयलक्ष्येण कन्दुकताडनमारब्धवते इङ्गलाण्टाय साक् क्रोली [६४] बन् डकट् [१४९] इत्येतौ भद्रमाधारं कृतवन्तौ। ततः चतुरान् क्रीडकान् बहिर्नीत्वा क्रीडानियन्त्रणं भारतेन स्वीकृतमपि जो रूट् [५३*], जामि स्मितः [४४*] इत्येतौ इङ्गलाण्टं विजयतीरं नीतवन्तौ।