शुभप्रवेशः।
बहिराकाशयात्रिकाः सुरक्षिताः अन्ताराष्ट्रनिलयं प्रविष्टवन्तः।चत्वारः यात्रिकाः बहिराकाशनिलयस्य अन्तः।
अन्ताराष्ट्रनिलयं प्राप्तवान् प्रथमो भारतीयः शुभांशु शुक्लः।
फ्लोरिडा> १४० कोटि जनानामभिमानं गतदिने बहिराकाशं प्राप्य वज्रकान्तिं प्राप। शुभांशु शुक्लः नाम उत्तरप्रदेशीयः इदंप्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्रविष्टवान् भारतीयः अभवत्। तदा उत्तर अत्लान्टिक् समुद्रस्य उपरि ४२४ कि मी उच्चस्थाने आसीत् ऐ एस् एस् नामकम् अन्ताराष्ट्रबहिराकाशनिलयम्।
बुधवासरे विक्षिप्तं ड्रागण् इति बहिराकाशपेटकं शुभांशुमभिव्याप्य चतुरान् यात्रिकान् ऊढ्वा २८ होराणां प्रयाणानन्तरं गुरुवासरे सायं सार्धचुर्वादने बहिराकाशनिलयेन सह सम्बद्धम्। 'डोकिंग्' इति एतत्प्रक्रियानन्तरं पेटकनिलययोः अन्तर्मर्दसमीकरणादीन् क्रियाविधीन् समाप्य उपषट्वादने [भारतसमयः] ड्रागणपेटकात् एकैकशः बहिराकाशनिलयं 'प्रवाहावतरणं' कृतवन्तः।
प्रथमं दौत्यस्य नेता पेग्गी विट्सण् , द्वितीयः भारतस्य शुभांशु शुक्लः, ततः स्लावोस् उस्लन्स्कि विस्नीस्कि [पोलण्ट्], अनन्तरं टि बोर् कापुः [हंगरी] च निलयं प्रति तत्र वर्तमानीयैः यात्रिकैः प्रेमालिंगनेन स्वीकृताः।