शुभांशवे शुभयात्रा।
शुभांशुः सहयात्रिकाश्च बहिराकाशनिलयं प्राप्तवन्तः।
४१ वर्षेभ्यः परं बहिराकाशं प्राप्यमाणः भारतीयः।
फ्लोरिडा> षट्वारं परिवर्तितम् आक्सियं ४ दौत्यं विजयपथं प्राप्तम्। भारतीयः शुभांशु शुक्लस्य चालकत्वेन वर्तमानं स्पेय्स् एक्स् संस्थायाः ड्रागणपेटकं वहन्ती फाल्कण् - १० इति विक्षेपिणी इतरैः त्रिभिः यात्रिकैः सह बुधवासरे १२ वादने (भारतसमयः) यू एसे फ्लोरिडा केन्नडि बहिराकाशकेन्द्रात् उदगच्छत्। अद्य सायं चतुर्वादने नासायाः अन्ताराष्ट्र बहिराकाशनिलयं प्राप्य पेटकं निलयेन सह बद्धम्।