केरले अतिवृष्टिः।
आकेरलं महानाशः, निम्नप्रदेशेषु जलोपप्लवः, पञ्च मरणानि।
कोच्ची> केरले कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या बहुत्र महानाशः अभवत्। विविधस्थानेषु वृष्टिदुष्प्रभावेण ५ जनाः मृत्युमुपगताः। द्वौ जलप्रवाहे पतित्वा, त्रयः वंगराज्यीयाः वासगृहं विशीर्य च मृत्युं प्राप्ताः।
केरले सर्वाः जलसम्भरण्यः सम्पूर्णाः विद्यन्ते। तासु बाणासुरसागर (वयनाट्), मलम्पुष़ा (पालक्काट्) इति जलसम्भरणीद्वयस्य जलबहिर्निर्गमनद्वाराणि उद्घाट्य अधिकजलं बहिः प्रवाहयितुमारब्धम्।