ट्रम्पस्य व्यवधानम्!
युद्धस्थगनम्।
वाषिङ्टणः> इरान-इस्रयेलयोर्मध्ये साप्ताहिकद्वयं दीर्घितं युद्धं कुजवासरे स्थगितमिति डोनाल्ड ट्रम्पेन निगदितम्। किन्तु तदनन्तरं टेहरानस्य उत्तरपश्चिमदिशि स्फोटनशब्दः श्रुत इति इरानीयवार्तामाध्यमैः आवेदितम्।
इरानः इस्रयेलश्च परस्पराक्रमणं समापयितुं सम्मतिं प्राकटयतामिति मङ्गलवासरे प्रत्युषसि १. ३० वादने [भारतीयसमयः] ट्रम्पः 'ट्रूत् सोष्यल्'द्वारा निगदितवान्। शान्तिसंस्थापनाय राष्ट्रद्वयमपि आत्मानम् अभ्यर्थयत इति च ट्रम्पेन सूचितम्। मङ्गलवासरे प्रभाते १०. ३० वादने आक्रमणस्थगनं प्रवृत्तिपथमागमिष्यतीति च तेन प्रस्तुतमासीत्।
किन्तु सायं पञ्चवादने एव युद्धस्थगनं सार्थकमभवदिति ट्रम्पेन उद्घोषितम्। एतदाभ्यन्तरे इरानः इस्रयेलश्च ट्रम्पस्य अधिक्षेपस्य अर्हौ जातौ।