OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 24, 2025

 भारत-इङ्गलान्ट् क्रिकट् निकषस्पर्धा उज्वलपराकाष्ठायाम्। 

ऋषभ पन्तस्य अनुस्यूतं द्वितीयशतकम् [११८]

के एल् राहुलस्यापि शतकम्। [१३७]

इङ्गलान्टं विरुध्य शतकं प्राप्तवान् के एल् राहुलः। 

लीड्स्> इङ्गलान्टस्थे लीड्स् क्रीडाङ्कण् सम्पद्यमाना भारत-इङ्गलान्ट्दलयोः प्रथमनिकषस्पर्धा अन्तिमे दिने उज्वलपराकाष्ठायां सम्प्राप्ता। प्रथमचरणे (innings) षट् धावनाङ्कानाम् आधिपत्येन भारतम् इङ्गलण्टाय ३७९ धावनाङ्कानां विजयलक्ष्यम् अदात्। 

  द्वितीयचरणे भारतस्य ऋषभ पन्तः को एल् राहुलश्च शतकं प्राप्तवन्तौ। तदा परिणामः भारतायानुकूलः भविष्यतीति भासते स्म। किन्तु अन्तिमेषु कन्दुकताडकेषु  अनुस्यूततया बहिर्गतेषु भारतस्य धावनाङ्कसम्प्राप्तिः ३६४ इत्यस्मिन् समाप्ता। अनेन इङ्गलण्टस्य विजयलक्ष्यं ३७१ अभवत्। ह्यः क्रीडासमाप्तौ इङ्गलण्टः २१/० इत्यस्ति। 

अङ्कप्राप्तिसूचिका - भारतं  ४७१, ३६४। इङ्गलण्टः ४६५,२१/०।