OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 26, 2025

 श्रीनारायणगुरुदेवदर्शनं समस्तमानवराशेः  सम्पत्तिः - प्रधानमन्त्री। 

महात्मा गान्धि - नारायणगुरुमेलनस्य शताब्दिः आमानितः। 

नवदिल्ली> अद्वैतवेदान्तस्य प्रायोगिकप्रतिष्ठापकस्य केरलस्य आध्यात्मिक-नवोत्थानाचार्यस्य च श्रीनारायणगुरोः दर्शनमशेषं समस्तमानवकुलस्य प्रगत्यर्थम् अमूल्यसम्पदिति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। सर्वविधपृथक्करणमुक्तं समाज एव नारायणगुरुणा विभावितः, तादृशं सम्पूर्णताभावं स्वीकृत्य पृथक्करणस्य सर्वाः सम्भावनाः निर्मार्जयितुमेव प्रशासनस्यास्य उद्यम इति प्रधानमन्त्री अवोचत्। 

  महात्मागान्धिनः श्रीनारायणगुरोः च मिथः शिवगिरौ  सम्पन्नस्य ऐतिहासिकमेलनस्य शताब्द्युत्सवं दिल्ल्यां विज्ञानभवने उद्घाटनं कुर्वन् भाषमाणः आसीत् नरेन्द्रमोदिवर्यः। श्रीनारायणधर्मसंघं ट्रस्ट् इत्यस्य नेतृत्वे समायोजिते कार्यक्रमे शिवगिरिमठस्य अधिपतिः सच्चिदानन्दस्वामिनः अध्यक्षपदमलङ्कुर्वन्। 

  राष्ट्रस्य चूषित-पीडित-पार्श्ववत्कृतसमाजेभ्यः यः महत्वपूर्णः निर्णयः यदा यदा स्वीक्रियते तदा तदा श्रीनारायणगुरुः स्मृतिपथमागच्छतीति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्। प्रशासनस्य "सब का साथ, सब का विकास" [सर्वैः सह, सर्वेषाम् अभिवृद्धिः] इत्याशयस्य प्रचोदना गुरुदेवदर्शनमिति तेनोक्तम्। गुरुदेवस्य 'आत्मोपदेशशतकम्' 'निवृत्तिपञ्चकम्' इत्यादयः कृतयः तेन परामृष्टाः। 

  कैरल्या सदः अभिसम्बुध्य हिन्दीभाषया प्रभाषणमारब्धवान् प्रधानमन्त्री गुरोः बहूनि आप्तवाक्यानि कैरल्यामेव उक्तवान् इत्येतत् कौतुकस्य विषयोSभवत्।