महिला विश्वचतुरङ्गचषकः भारतमागच्छति।
दिव्या देशमुखः कोनेरु हम्पी च अन्तिमस्पर्धायाम्।
![]() |
फिडे महिलाविश्वचषकचतुरङ्गस्पर्धायाः अन्तिमस्पर्धायां प्रतिद्वन्द्विन्यौ कोनेरू हम्पी, दिव्या देशमुखश्च। |
बातुमी (जोर्जिया)> फिडे महिलानां चतुरङ्गस्य विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिके स्पर्धिष्येते। प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे दिव्या देशमुख नामिका १९ वयस्का भूतपूर्वा विश्ववीरा चीनीया टान् सोङ्की नामिकां पराजित्य अन्तिमस्पर्धां प्राविशत् (१.५ - ०.५)।
इतरस्मिन् पूर्वान्त्यप्रतिद्वन्द्वे भारतस्यैव कोनेरु हम्पी चीनस्य वरिष्ठा क्रीडिका लेय् टिन् जि नामिकां समस्थितिभञ्जकस्पर्धायां [Tie breaker] ५ - ३ अङ्कक्रमेण पराजित्य अन्तिमचरणं प्राविशत्।
अन्तिमस्पर्धायाः प्रथमक्रीडा २६ तमे दिनाङ्के, द्वितीयक्रीडा २७ तमे दिनाङ्के च सम्पत्स्येते। समस्थितिः भवेत्तर्हि २८ तमे दिनाङ्के आयोज्यमानेन समस्थितिभञ्जकेन विजेत्री निश्चेष्यते।