OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 17, 2025

 योगाय केरलपाठ्यक्रमे प्राधान्यं दातव्यम्। 

कोच्ची> सि बी एस् सि विद्यालयेषु योगानुष्ठानाय दीयमानं प्राधान्यं केरलपाठ्यक्रमे अपि दातव्यमिति भारतीय योग फेडरेषन् इत्यस्य उपाध्यक्षेण वार्ताहरसम्मेलने   अभ्यर्थितम्। छात्राणां सर्वतोमुखम् उन्नमनं लक्ष्यीकृत्य विश्वविद्यालयेषु योगाध्ययनम् अन्तर्भाव्यमिति यू जि सी संस्थायाः निर्देशोSपि वर्तते। 

  केरले पारम्पर्येण योगानुष्ठानं कुर्वन्तः कारयन्तश्च वरिष्ठाः योगाचार्याः सन्ति। तेषां नेतृत्वे प्रवर्तनानि समायोजनीयानि। वार्ताहरसम्मेलने संघटनस्य देशीयोपाध्यक्षः के पि भास्करमेनोन् , योग-कायिक असोसियेषन् इत्यस्य एरणाकुलं जनपदीयाध्यक्षः षाजन् पोल् इत्यादयः भागमकुर्वन्।