OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 18, 2025

 अनवधानतायाः बलिदानी।

विद्यालये विद्युदाघातेन अष्टमकक्ष्याछात्रस्य दारुणान्त्यम्। 

विद्युदाघातेन मृत मिथुनः, दुर्घटनास्थानं च। 

कोल्लम्> विद्यालये कक्ष्याप्रकोष्ठस्य समीपे वर्तमानायाः  द्विचक्रिकाशालायाः उपरिष्ठात् उपगच्छतः  विद्युद्वाहकात्  लोहसूत्रात् वैद्युताघातेन त्रयोदशवयस्कः बालः मृतः। कोल्लं जनपदे तेवलक्करा बालकोच्चविद्यालये अष्टमकक्ष्यायां पठन् समीपप्रदेशीयः मिथुन् नामक एव अतिदारुणेन मृत्युवशं गतः। 

  प्रभाते साधारणतया विद्यालयं प्राप्तः मिथुनः मित्रैः सह क्रीडावसरे तस्य पादरक्षा कक्ष्यायाः बहिः द्विचक्रिकाशालायाः उपरि पतिता। पादरक्षासंग्रहणाय शालोपरि आरूढस्य मिथुनस्य पादे स्रंसिते  हस्तः विद्युद्वाहकरज्जौ पस्पर्श। विद्युदाघातेन पतितं मिथुनं लोहसूत्रात् पृथक्कृत्वा आतुरालयमनयदपि प्राणरक्षां नाशक्नोत्। 

  निस्वपरिवारीयस्य मिथुनस्य पिता मनोजः निर्माणश्रमिकः अस्ति। माता सुजा स्वकुटुम्बस्य आर्थिकक्लेशं परिहर्तुं कुवैट् राष्ट्रे गृहपरिचारिकावृत्तिं कर्तुं मासद्वयात् पूर्वमेव गतवती। 

   विद्यालयाधिकारिणां तथा के एस् ई बी इति वैद्युतिविभागस्य च अनवधानता एव दुर्घटनाकारणमिति स्पष्टमस्ति। ग्रामसभासमित्याः, विद्युत्विभागस्य च अनुज्ञां विनैव कतिपयवर्षेभ्यः पूर्वं छात्रेभ्यः  द्विचक्रिकासंरक्षणशाला निर्मिता। विद्यालयस्य परिसरान्तर्भागेन विद्यालयाय इतरस्मै निजीयपरिवाराय च विद्युद्दानार्थम् उपगच्छतः लोहरज्जुपटलस्य स्थाने कवचिततन्त्राणि उपयेक्तुं के एस् ई बी संस्थया च अनवधानता प्रदर्शिता। प्रकरणेSस्मिन्  बहुजनानां प्रतिषेधान्दोलनं प्रचलति।