OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 20, 2025

 पूर्वभार्यायै भरणपोषणार्थदण्डं प्रदातुं कश्चिन्निरुद्योगो नरः कण्ठसूत्रचौर्यं वृत्तिं कृत्वा बहुष्वपराधेषु लिप्तः सन्नन्ततो निगृहीतः।

    द्विवर्षव्यापिना अवृत्तित्वेन न्यायालयनिर्दिष्टेन भरणपोषणभारेण च पीडितो नागपुरस्थः पुरुषोऽयं सुवर्णकण्ठसूत्रचौरकर्मणि बहुशः प्रवृत्तः। नागपुरस्य माणकापुरान्तर्गते गणपतिनगरे निवसन् द्विचत्वारिंशद्वर्षीयः कन्हैयानारायणबौराशीत्याख्यो निरुद्योगः पुरुषः स्वपूर्वपत्न्याः कृते न्यायालयनिर्दिष्टं षट्सहस्ररूप्यकाणां मासिकं भरणपोषणधनं दातुं पुनः पुनश्चौर्यकर्मण्यभियुक्तो निगृहीतः। इदं प्रकरणं तदा प्रकाशमागतं यदाऽस्य कृष्टाब्दस्य द्वितीये मासे द्वाविंशतितमे दिनाङ्के चतुस्सप्ततिवर्षीया गाडेकुलीनजयकुमारपत्नी वृद्धा जयश्रीर्मनीषनगरे द्विचक्रिकायानेनागतेन केनचित् तस्करेण तस्याः सुवर्णसूत्रमपहृतमिति न्यवेदयत्।

    यन्त्रादिनिरीक्षणेन स्थानगतान्वेषणेन च सञ्जातानुसन्धानेनारक्षका एनं कन्हैय्यासञ्ज्ञं जनं प्राप्य तं पर्यपृच्छन्। स च गतमासेषु द्विवर्षव्यापिना कर्मराहित्येन जाताया आर्थिकविपन्नताया वशान्न्यूनान्न्यूनं चत्वारि तादृशानि चौर्याणि कृतवानिति स्वयमङ्गीकृतवान्। अधिकारिभिश्चास्य पर्यन्वेषणसमये पञ्चाशीति-सहस्राधिकैकलक्षक-मूल्यकानि स्वर्णाभूषणानि चौर्ये प्रयुक्तं द्विचक्रिकायानं शिरस्त्राणं चलदूरवाणी च सर्वमेतल्लब्धम्।