OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 20, 2025

 विद्युदाघातेन छात्रस्य मरणम्।

मिथुनाय सहस्राणाम् अन्त्याञ्जलिः। 

माता विदेशादागता। 

कोल्लं> अधिकृतानां उत्तरदायित्वराहित्यात् विद्यालयस्थात् विद्युत्तन्त्रिणः विद्युदाघातेन  विनष्टप्राणस्य मिथुन् नामकस्य त्रयोदशवयस्कस्य अन्त्येष्टिकर्माणि विधत्तानि। 

  परिवारस्य आर्थिकक्लेशपरिहारार्थं  गृहपरिचारिकारूपेण वृत्तिं कर्तुं मासद्वयात्पूर्वं  विदेशं गतवती माता सुजा ह्यः मध्याह्ने गृहं प्राप्तवती। पुत्रस्य निश्चेतनं शीतीकरणीसंरक्षितं च  शरीरं दृष्ट्वा तस्याः विलापः हृदयभेदक आसीत्। सायं सार्धचतुर्वादने मिथुनस्य अनुजः चिताम् अग्निज्वलनमकरोत्।

   प्रभाते दशवादनतः मिथुनस्य विद्यालये तस्य शरीरं  सामाजिकदर्शनाय स्थापितमासीत्। सहस्रशः जनाः तस्मै अन्त्योपचारान् समार्पयन्।