OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 17, 2025

 गासायां भक्ष्यवितरणकेन्द्रे अभिसम्पातः - 

१९ मरणानि। 

गासासिटी> गासायां इस्रयेल-अमेरिकयोः सहयोगेन प्रवर्तमानस्य सन्नद्धसंघटनस्य भक्ष्यवितरणकेन्द्रे बुधवासरे आपन्नेन  अन्योन्यसम्मर्देन १९ जनाः मृत्युमुपगताः। जि एछ् एफ् इति गासा ह्युमानटेरियन् फौण्टेषन् इत्यस्य खान् यूनिसस्थे वितरणस्थाने आसीदियं दुर्घटना।

  यू एन् संस्थायाः भोज्यवितरणसंविधानस्य उपकल्पनरूपेण मेय् मासे आसीत् जि एछ् एफ् इत्यस्य प्रवर्तनमारब्धम्। ततः प्रभृति तत्र भोज्यार्थमागम्यमानान् विरुध्य आक्रमणानि भुषुण्डिप्रयोगाश्च साधारणं दृश्यन्ते। अद्यावधि ८५० जनाः मृत्युमुपगताः इति यू एन् संस्थायाः गणना।