OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 22, 2025

विश्वविख्याते कण्वाश्रमे पुन: अभवत् संस्कृतगुञ्जनम्।

   परमार्थवैदिकगुरुकुले, कण्वाश्रमे, कोटद्वारे दशदिनात्मकः सरलसंस्कृत -संभाषणशिबिरः सम्पन्न:। छात्रेभ्यः सरलपद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिबिरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।


समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तः प्रधानाचार्यः, संस्कृतभारती कोटद्वारनगराध्यक्षः च मुख्यातिथिरूपेण उपस्थिताः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिकगुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्।

छात्रेषु वेदान्तः, अनिलः, हनुगिरिः, अनुरागः, दिव्यांशः च स्वदशदिनानुभवं संस्कृतभाषायाम् एव सप्रेमम् उक्तवन्त: ।

डॉ. रमाकान्तः कुकरेती उक्तवान् यत्— “पुस्तकेभ्यः वार्षिकं पाठ्यक्रमं पठित्वा अध्ययनं क्रियते, किन्तु संस्कृतभारत्याः मतानुसारं केवलं दशसु दिनेषु द्वौ घण्टौ प्रतिदिनं अभ्यासेन वयं संस्कृतम् अधिगन्तुं शक्नुमः।”


अम्बेशः पन्तः उक्तवान् यत् – “अद्य समाजः संस्कृतभाषां प्रति आकृष्टः दृश्यते। अस्यां भाषायां अस्माकं सर्वसमृद्धि: अन्तर्भूता अस्ति, अतः संस्कृताध्ययनं आवश्यकम्। एषा अस्माकं दायित्वयुक्ता भाषा यत् संस्कृतं समाजे व्याप्तं कुर्मः।”


प्रवीणः थापः उक्तवान् – “संस्कृतं एव संस्कृतेः मूलम्। कण्वाश्रमस्य संस्कृति: विश्वविख्याता आसीत्,  गर्वस्य विषयः यत् अद्यापि कण्वाश्रमे संस्कृतं जीवति।”


संस्था विश्वे दशदिनात्मकानि संवादशिबिराणि आयोजयति, यया प्रारम्भिकस्तरे अपि जनाः भाषायाः ज्ञानं प्राप्नुवन्ति। पत्राचारपाठ्यक्रमाः, शिक्षकप्रशिक्षणम्, गीताशिक्षणकेन्द्राणि, बालकेन्द्राणि, संभाषणसंदेशम् इत्याख्यां लोकप्रियपत्रिकां च प्रकाशयति।


संस्था अद्यावधि 26 राष्ट्रेषु 4500 केन्द्राणि स्थाप्य, एककोटि अधिकजनान् संस्कृतशिक्षां प्रदत्तवती। दशसहस्राधिकानि 'संस्कृतगृहाणि' अपि स्थापितानि, यत्र सर्वे सदस्याः केवलं संस्कृतेन संवादं कुर्वन्ति।


भारतदेशे कर्णाटकराज्ये मत्तूरु, होसाहल्ली तथा मध्यप्रदेशे झीरी, मोहद इत्यादिषु षट् ग्रामाः 'संस्कृतग्राम'रूपेण विख्याताः, यत्र सर्वे जनाः केवलं संस्कृतेनैव व्यवहारं कुर्वन्ति।