OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2026

 एष्याचषकमहिलाक्रिकट् टि-२०

बङ्गलादेशं विजित्य भारतम् अन्त्यस्पर्धायाम्।

दुबाय्> महिलानाम् एष्याचषक टि-२० क्रिकट् स्पर्धायाः पूर्वान्त्यप्रतिद्वन्द्वे बङ्गलादेशं ४० धावनाङ्कैः पराजित्य भारतं अन्तिमप्रतिद्वन्द्वं प्राविशत्। पाकिस्थान-श्रीलङ्कयोः स्पर्धायां यो गणः जेष्यति सः रविवासरे भारतं प्रति अन्तिमस्पर्धायां क्रीडिष्यति। 

  प्रथमं कन्दुकताडनं कृतवत् भारतं षट् द्वारकाणां विनष्टे १४९ धावनाङ्कान् सम्प्राप। ४० कन्दुकेभ्यः षेफाली वर्मा भारताय अर्धशतकं [६४] प्राप्तवती। प्रत्युत्तरक्रीडायां २० क्षेपणचक्रेषु १०९ धावनाङ्कान् सम्पाद्य बङ्गलादेशस्य क्रीडिकाः सर्वे बहिरानीताः।