OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2026

संस्कृतमासमहोत्सवः

 राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे संस्कृतमासमहोत्सवस्य अन्तर्जालीयसङ्गोष्ठी सम्पन्ना

Sanskrit Month Programme.

​वार्ताहर:-कुलदीपमैन्दोला

    उत्तराखण्डसंस्कृतसंस्थानेन आयोजितस्य संस्कृतमासमहोत्सवस्य अन्तर्गतं पौड़ीजनपदे भारतीयज्ञानपरम्परायां वैदिकदार्शनिकं चिन्तनं इत्यस्मिन् विषये अन्तर्जालीयसङ्गोष्ठी उच्चतकनीकिपद्धत्या राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे महता उत्साहेन सम्पन्नाभूत्।

​     कार्यक्रमस्य शुभारम्भः मातृशारदायाः प्रतिमायाः पुरतः दीपप्रज्वलनेन पुष्पार्चनेन च अभवत्। अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यः प्रो० डी. एस. नेगी, प्रो० निरञ्जना शर्मा, डॉ० अरविन्द अवस्थी, प्रो० प्रतापबिष्ट:, डॉ० मनीषासिंह:, डॉ० ऐश्वर्या राणा तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्। अनन्तरं दिव्यांश्या सरस्वतीवन्दना, नवीनबिष्टेन वैदिकमङ्गलाचरणं, मोनिकानौगेंद्वारा स्वागतगीतं च सुसम्पन्नम्।

​अध्यक्षीयभाषणे प्राचार्यः प्रो० डी. एस. नेगी संस्कृतभाषायाः संरक्षणसंवर्धनाय वैदिकाध्यात्मिकचिन्तनस्य अनिवार्यतां प्रतिपादितवान्। प्रस्तावनावक्तव्ये उत्तराखण्डसंस्कृतसंस्थानस्य सचिवः प्रो० विनयकुमारविद्यालङ्कारः उपस्थितान् विदुषः सम्बोध्य संस्कृतप्रचारस्य महत्त्वम् अवदत्। शोधाधिकारी डॉ० हरीशगुरुराणी उपनिषदां ध्येयवाक्यानि उद्धृत्य वेदान् प्रति सर्वेषां ध्यानम् आकर्षितवान्।

​विशिष्टातिथिः डॉ० सीताजुयालः भागवतमहापुराणस्य प्रसङ्गान् आधारीकृत्य भारतीयज्ञानपरम्परायाः गौरवं निरूपितवती। सहप्रवक्ता डॉ० अरविन्दावस्थी दार्शनिकदृष्ट्या मौलिकदर्शनशास्त्रस्य गूढतत्त्वानि प्रभावपूर्णेन व्याख्यानेन प्रस्तुतवान्। मुख्यवक्ता डॉ० दिनेशचन्द्रपाण्डेयः वेदं वैदिकसंहिताः, ब्राह्मणग्रन्थाः, आरण्यकानि, उपनिषदः तथा षड्दर्शनानि समन्वय्य भारतीयज्ञानपरम्परायाः अखण्डस्वरूपं विस्तरेण प्रतिपादितवान्।

​संस्कृतविभागप्रभारी डॉ० मनीषासिंहः समस्तप्राध्यापकेभ्यः धन्यवादं ज्ञापयित्वा छात्रछात्राणां उत्साहवर्धनम् अकरोत्। जनपदसंयोजकः तथा कार्यक्रमसञ्चालकः डॉ० मनोरथप्रसादनौगें शान्तिपाठेन कार्यक्रमस्य समापनम् अकार्षीत्। कार्यक्रमे डॉ० आशारामबिजल्बाणः, डॉ० मीराकुमारी, डॉ० एम. पी. शर्मा, डॉ० सन्दीपकुमारः, डॉ० प्रमोदसिंहः, डॉ० जितेन्द्रसिंहः, डॉ० विनोदभण्डारी, डॉ० बिशनलालः, डॉ० राकेशशाहः, श्री अरविन्ददूतपुड़ी इत्यादयः प्राध्यापकाः उपस्थिताः आसन्। सङ्गोष्ठ्याः सफलसम्पादने संस्कृतविभागस्य डॉ० मनीषासिंहः, डॉ० गीता, डॉ० मनोरथप्रसादनौगें, डॉ० प्रियाग्रवालः तथा तकनीकीव्यवस्थायां डॉ० ऐश्वर्याराणा एवं डॉ० पवनभट्टः विशेषं योगदानम् अददुः।