OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2026

 रक्तसमुद्रे युद्धं व्याप्यते। 

यमने सौद्याः व्योमाक्रमणम्। 

हूतिनियन्त्रणाधीनं मोखा विमाननिलयः भग्नः। 

यमनस्थाः हूत्यनुकूलिनः। 

केय्रो> यू एस्-इरानसंघर्षेण सह यमनदेशे गृहसंघर्षे आरब्धे, रक्तसमुद्रमण्डले युद्धं व्याप्यते। एतत्तु विश्वस्य आशङ्कां संवर्धयति च।

  यमनस्थं मोखाविमाननिलयं प्रति शुक्रवासरे सौदी अरेब्यया व्योमाक्रमणं विधत्तमिति हूतिमाध्यमैः वृत्तान्तीकृतम्। रक्तसमुद्रतीरे वर्तमानः तन्त्रप्रधानं नौकाश्रयनगरमस्ति मोखा। मोखानगरं इरानस्य सहयोगेन विमतहूतिभिः संगहीतमासीत्। तदनन्तरमस्ति सौद्याः व्योमाक्रमणरूपेण  प्रतिक्रिया। 

  हूतिविभागेन यमनात् ३.५ कि मी समीपे वर्तमानः 'मायून्' द्वीपं [पेरिम द्वीपः], तत्समीपस्थं 'दुबाब्' इति तीरनगरं च निगृहीताः हूतिभटाः रक्तसमुद्रे तन्त्रप्रधानः पण्यवस्तुसञ्चारमार्गः इति मन्यमानस्य 'बाब् एल् माण्टब्' नामकसमुद्रधुनेः ८० कि मी दूरे वर्तन्ते इति रक्तसमुद्रमार्गेण महानौकागमनागमनाय भीषा अस्तीति आशङ्क्यते।