OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2026

 ब्रिक्स् शिखरसम्मेलनम्। 

दिल्ल्यां दढा सुरक्षा जागरूकता च। 

दिल्ल्यां विधत्ता सुरक्षा। 

नवदिल्ली> भारतस्य राजधानीनगरे 'भारतमण्डपे' अद्य आरभ्यमाणस्य ब्रिक्स् शिखरसम्मेलनस्य अंशतया नगरे सर्वत्र शक्ता सुरक्षा विधत्ता। शनिवासरे रविवासरे च नगरे गमनागमननियन्त्रणं च आदिष्टम्। बस् याननिस्थानानि, विपण्यः, भोजनालयाः, मेट्रो निस्थानानि, रेल् निस्थानानि इत्यादिषु सामाजिकस्थानेषु नितान्तजागरूकता च विधत्ता अस्ति। 

  वीथिषु दृश्यमानेषु अनाथेषु  परित्यक्तेषु  च वस्तुषु स्पर्शनादिव्यवहारः न कार्य इति जनाः निर्दिष्टाः। गृहेषु अपरिच्तानां कृते वासव्यवस्था न कार्या। 

 रविवासरे अपराह्णे शिखरसम्मेलनं परिसमाप्स्यते।