ब्रिक्स-शिखरसम्मेलनात् पूर्वं मोदि-पुतिनयोः सम्मेलनम्; द्विपक्षीयव्यापारस्य दश-लक्ष-कोटि-रूप्यकाणि (१०० अरब-डॉलर) यावत् वर्धनस्य सहमतिः.jpeg)
Modi Putin
.jpeg)
स्वकीयलेखकः
देहली> स्वः आरभ्यमाणस्य ब्रिक्स्-शिखरसम्मेलनात् पूर्वं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रष्यादेशस्य राष्ट्रपतिना व्लादिमिर-पुतिनेन सह मिलितवान्। प्रधानमन्त्री मोदी रष्या-राष्ट्रपतिने तिरुवल्लुवरेण रचितस्य 'तिरुक्कुरळ्'-ग्रन्थस्य रष्याभाषानुवादं उपहाररूपेण समर्पितवान्। रष्या-यूक्रेनयोः सङ्घर्षस्य निवारणस्य सम्भावनाः उभौ नेतृवृन्दौ समालोकितवन्तौ। भारत-रष्या- उभयपक्षीयव्यापारस्य २०३० तमवर्षपर्यन्तं दश-लक्ष-कोटि-रूप्यकाणि (१०० अरब-डॉलर्) यावत् वर्धनस्य सहमतिः अपि अस्मिन् उपवेशने संजाता। प्रधानमन्त्री मोदी शीघ्रमेव ईरानस्य राष्ट्रपतिना मसूद-पेज़ेश्कियानेन सह सम्भाषियिष्यते। श्वः चीनादेशस्य राष्ट्रपतिना शी-जिन्पिङ्गेन सह अस्य वार्ता भविष्यति। आर्थिकसहयोगः इत्यादयः विषयाः कार्यसूच्यां सन्ति।